Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)
CLASS : 12th (Sr. Secondary) Series : SS/Annual Exam. -2025
रोल नं
SET : A
संस्कृत SANSKRIT ACADEMIC/OPEN
(Only for Fresh/Re-appear/Improvement/Additional Candidates)
समय : 3 घंटे]
[ पूर्णांक : 80
• कृपया जाँच कर लें कि इस प्रश्न-पत्र में मुद्रित पृष्ठ 16 तथा प्रश्न 14 हैं।
• प्रश्न-पत्र में दाहिने हाथ की ओर दिये गये कोड नम्बर तथा सेट को छात्र उत्तर-पुस्तिका के मुख्य-पृष्ठ पर लिखें।
• कृपया प्रश्न का उत्तर लिखना शुरू करने से पहले, प्रश्न का क्रमांक अवश्य लिखें।
• उत्तर-पुस्तिका के बीच में खाली पन्ना/पन्ने न छोड़ें।
• उत्तर-पुस्तिका के अतिरिक्त कोई अन्य शीट नहीं मिलेगी। अतः आवश्यकतानुसार ही लिखें और लिखा उत्तर न काटें।
• परीक्षार्थी अपना रोल नं० प्रश्न-पत्र पर अवश्य लिखें। रोल नं० के अतिरिक्त प्रश्न-पत्र पर अन्य कुछ भी न लिखें और वैकल्पिक प्रश्नों के उत्तरों पर किसी प्रकार का निशान न लगाएँ।
• कृपया प्रश्नों के उत्तर देने से पूर्व यह सुनिश्चित कर लें कि प्रश्न-पत्र पूर्ण व सही है, परीक्षा के उपरान्त इस सम्बन्ध में कोई भी दावा स्वीकार नहीं किया जायेगा।
Free PDF Download link given in last of this Post
Quarry Solved:
Class 12 ,BSEH , Haryana Board Previous Year Question Paper, HBSE Previous Year Question Paper, Haryana Board Class 12 Previous Year Question Paper, HBSE Class 12 Previous Year Question Paper, Haryana Board Class 12 Question Paper PDF, HBSE Class 12 Quest
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)
सामान्य निर्देश :
(क) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ख) प्रश्नसंख्याः प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयाः।
(ग) श्रेष्ठाङ्कान् प्राप्तये सुस्पष्टः लेखः लेखनीयः।
खण्डः – ‘क’
(अपठित-अवबोधनम्)
1. अधोलिखित गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि यथानिर्देशं संस्कृतेन लिखत -
संस्कृतभाषायाः वैज्ञानिकतां विचार्य एव सङ्गणकविशेषज्ञाः कथयन्ति यत् संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते। अस्याः वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति। कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यम् अनुपमम्। चाणक्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। गणितशास्त्रे शून्यस्य प्रतिपादनं सर्वप्रथमं भास्कराचार्यः सिद्धान्तशिरोमणौ अकरोत्। चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानं विश्वप्रसिद्धम्। संस्कृते यानि अन्यानि शास्त्राणि विद्यन्ते तेषु खगोलविज्ञानं वास्तुशास्त्रं रसायनशास्त्रं ज्योतिषशास्त्रं विमानशास्त्रं च उल्लेखनीयम्।
प्रश्नाः –
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम् ) - 2 × 1 = 2
(क) कालिदाससदृशानां विश्वकवीनां किम् अनुपमम् ?
(ख) शून्यस्य प्रतिपादनं कः अकरोत् ?
(ग) किं सङ्गणकस्य कृते सर्वोत्तमा भाषा विद्यते ?
(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम् ) - 2 × 2 = 4
(क) सङ्गणकविशेषज्ञाः किं विचार्य किं च कथयन्ति ?
(ख) चाणक्यरचितं किं जगति प्रसिद्धम् अस्ति ?
(ग) चिकित्साशास्त्रे कयोः योगदानम् विश्वप्रसिद्धम् ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1 × 1 = 1
(द) यथानिर्देशम् उत्तरत (केवलं प्रश्नत्रयम्) – 3 × 1 = 3
(क) सङ्गणकस्य कृते सर्वोत्तमा भाषा संस्कृतं विद्यते ? अत्र किं क्रियापदम् ?
(i) सङ्गणकम्
(ii) सर्वोत्तमा
(iii) विद्यते
(iv) संस्कृतम्
(ख) संस्कृते अन्त्यानि शास्त्राणि विद्यन्ते ? अत्र विशेष्यपदं किम् ?
(i) संस्कृते
(ii) अन्त्यानि
(iii) विद्यन्ते
(iv) शास्त्राणि
(ग) कालिदाससदृशानां विश्वकवीनां काव्यसौन्दर्यं अनुपमम् ? अत्र ‘काव्यसौन्दर्यं’ इत्यस्य विशेषणपदं किम् ?
(i) सदृशानां
(ii) अनुपमम्
(iii) विश्वकवीनां
(iv) कालिदासः
(घ) चाणक्यरचितम् अर्थशास्त्रं जगति प्रसिद्धमस्ति। अत्र ‘जगति’ शब्दे का विभक्तिः ?
(i) तृतीया
(ii) चतुर्थी
(iii) सप्तमी
(iv) पञ्चमी
खण्डः – ‘ख’
(रचनात्मकं कार्यम्)
2. विषयमेकमधिकृत्य पञ्चवाक्यानि संस्कृतभाषया लिखत –
(क) अनुशासनम्
(ख) संस्कृतभाषायाः महत्त्वम्
(ग) समयस्य सदुपयोगः
(घ) प्रातःकालीनभ्रमणम्
(छन्द-अलङ्कार-परिचयः)
3. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम् ) - 3 × 2 = 6
(क) पञ्चमोऽक्षरः कस्मिन् छन्दसि लघुः भवति ?
(ख) इन्द्रवज्राछन्दसः लक्षणं किम् ?
(ग) उपेन्द्रवज्राछन्दसः उदाहरणं लिखत।
(घ) वंशस्थछन्दसि कति वर्णाः भवन्ति ?
4. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम् ) - 3 × 2 = 6
(क) अनुप्रासालंकारस्य लक्षणं किम् ?
(ख) यमकालंकारस्य उदाहरणं किम् ?
(ग) श्लेषालंकारस्य लक्षणं किम् ?
(घ) अतिशयोक्ति-अलंकारस्य लक्षणं किम् ?
खण्डः – ‘ग’
(पठित-अवबोधनम्)
5. अधोलिखितपद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत – 1 × 4 = 4
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्यस्विद् धनम्।।
अथवा
विपदि वैयर्थ्यमभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धिमिदं हि महात्मनाम्।।
6. अधोलिखितगद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत – 1 × 4 = 4
गतस्य वर्षत्रयस्य आकलनात् ज्ञायते यद्विभागस्य कार्यनैपुण्यं दशगुणैः वर्धितम्। खाद्ये अपमिश्रणं न्यूनीभूतम्। अतः उपभोक्तॄणामपि अभियोगो नास्ति विभागस्य विपक्षे। मन्त्रिणां मध्येऽपि तस्य सुख्यातिः वर्तते।
अथवा
तस्मै राज्ञे व्याघ्राय रत्नचतुष्ट्यं दास्यामि। एतेषां महात्म्यम्-एकं रत्नं यद् वस्तु स्मर्यते तद् ददाति। द्वितीयरत्नेन भोजनादिकममृततुल्यमुपद्यते। तृतीयरत्नाच्चतुरङ्गबलं भवति। चतुर्थाद् रत्नाद् दिव्याभरणानि जायन्ते।
7. अधोलिखितासु सूक्तिषु मात्र द्वयोः सूक्तयोः भावार्थं हिन्दीभाषया लिखत – 2 × 2 = 4
(क) दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः।
(ख) योगः कर्मसु कौशलम्।
(ग) सुलभसौख्यमिदं बालत्वं भवति।
(घ) उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
अथवा
अधोलिखितश्लोकस्य अन्वयं मञ्जूषातः उचितपदानि चित्वा पूरयत – 4 × 1 = 4
अस्ति यद्यपि सर्वत्र नीरं नीरज-राजितम्।
रमते न मरालस्य मानसं मानसं विना॥
अन्वयः–
यद्यपि (1) ............ नीरजराजितं (2) ............ अस्ति, परन्तु (3) ............ मानसं (4) ............ विना न रमते।
मञ्जूषा
नीरम्, सर्वत्र, मानसम्, मरालस्य
8. अधोलिखित श्लोकं पठित्वा प्रश्नानाम् उत्तराणि श्लोकात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत –
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्यया अमृतमश्नुते॥
प्रश्नाः (केवलं प्रश्नत्रयम् )– 3 × 1 = 3
(क) विद्यया किम् अश्नुते ?
(ख) ‘तीर्त्वा’ इति पदे कः प्रत्ययः ?
(ग) अविद्यया किं तरति ?
(घ) ‘अश्नुते’ इत्यत्र कः लकारः ?
9. अधोलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि गद्यांशात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत –
यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः। नाशयति च पुरुषमत्यासङ्गे विषयेषु।
प्रश्नाः (केवलं प्रश्नत्रयम् ) –
(क) कदा बुद्धिः कालुष्यमुपयाति ?
(ख) कः पुरुषं नाशयति ?
(ग) ‘विषयेषु’ अत्र का विभक्तिः ?
(घ) ‘उपयाति’ अत्र कः लकारः ?
10. कोष्ठकाद् उपयुक्तशब्दं चित्वा रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) विशेषेण तु राज्ञाम्। (केषां/कुत्र)
(ख) चतुर्णां परस्परं विवादो लग्नः। (कस्मिन्/केषां)
(ग) पापान्निवारयति योजयते हिताय। (कस्मै/कस्मात्)
(घ) राजा सिंहासने समुपवेष्टुं गच्छति। (कुत्र/कस्य)
(ङ) शब्दैः प्रतीयते यद् गृहे चौरः प्रविष्टोऽस्ति। (कैः/केष्यः)
(संस्कृत-साहित्य-परिचयः)
11. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया एकपदेन लिखत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) ‘ऋतुसंहारस्य’ रचयिता कः ?
(ख) ‘महाभारतस्य’ रचयिता कः ?
(ग) ‘शिवराजविजये’ कस्य वर्णनमस्ति ?
(घ) ‘कादम्बरीग्रन्थस्य’ लेखकः कः ?
(ङ) ‘उत्तररामचरितम्’ इत्यस्य कः कविः वर्तते ?
12. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतेन एकपदेन लिखत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) ‘रघुवंशम्’ इति महाकाव्यस्य रचयिता कः अस्ति ?
(ख) श्रीमद्भगवद्गीतायां कति अध्यायाः सन्ति ?
(ग) ‘ईशोपनिषद्’ कस्य वेदस्य अंशः अस्ति ?
(घ) प्राचीनतमः वेदः कः अस्ति ?
(ङ) ‘हर्षचरितम्’ इति ग्रन्थस्य कविः कः वर्तते ?
खण्डः – ‘ख’
(अनुप्रयुक्त-व्याकरणम्)
13. (क) वृद्धिसन्धेः अथवा अयादिसन्धेः परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत। 1 × 2 = 2
(ख) अव्ययीभावसमासस्य अथवा बहुव्रीहिसमासस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत। 1 × 2 = 2
(ग) करणकारकस्य अथवा सम्प्रदानकारकस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत। 1 × 2 = 2
खण्डः – ‘ङ’
(पाठ्यपुस्तक-आधारिताः बहुविकल्पीयाः प्रश्नाः)
14. अधोनिर्दिष्टेषु प्रश्नेषु प्रदत्तवैकल्पिकचतुर्भ्यः उत्तरेभ्यः एकं शुद्धम् उत्तरं चित्वा लिखत - 17 × 1 = 17
(i) ‘तस्यैव’ इत्यस्य शब्दस्य कः सन्धिच्छेदः ?
(क) तस्य + इव
(ख) तस्य + एव
(ग) तस्य + ऐव
(घ) तस्यै + व
(ii) ‘जनयेत् + अज्ञानाम्’ इत्यत्र किं सन्धिपदम् ?
(क) जनयेज्ञानाम्
(ख) जनयेतज्ञानाम्
(ग) जनयैज्ञानाम्
(घ) जनयेदज्ञानाम्
(iii) ‘प्रत्युत्तरम्’ इति पदे केः सन्धिः ?
(क) गुणसन्धिः
(ख) यण्सन्धिः
(ग) अयादिसन्धिः
(घ) वृद्धिसन्धिः
(iv) ‘महान्धकारः’ इति पदे विग्रहोऽस्ति ?
(क) महा अन्धकारः
(ख) महान् अन्धकारः
(ग) महान् एव अन्धकारः
(घ) महद् अन्धकारः
(v) ‘गुरूपदेशः’ अत्र कः समासः ?
(क) अव्ययीभावः
(ख) बहुव्रीहिः
(ग) तत्पुरुषः
(घ) द्वन्द्वः
(vi) ‘प्रकृत्यासिद्धम्’ इति विग्रहे किं समस्तपदम् ?
(क) प्रकृत्यासिद्धम्
(ख) प्रकृतीसिद्धम्
(ग) प्रकृतिसिद्धम्
(घ) प्रकृत्सिद्धम्
(vii) ‘स्थितः’ इत्यस्मिन् पदे कः प्रत्ययः ?
(क) तः
(ख) क्त
(ग) शानच्
(घ) मयद्
(viii) ‘जन + तल्’ एतेषु संयोगे किं रूपं भवति ?
(क) जनता
(ख) जनतल्
(ग) जनते
(घ) जनते
(ix) ‘दीर्घग्रीवः’ अत्र विग्रहपदं किं भविष्यति ?
(क) दीर्घा ग्रीवा यस्य सः
(ख) ग्रीवः दीर्घः यस्य सः
(ग) दीर्घ ग्रीवं यस्य सः
(घ) दीर्घ दीर्घ ग्रीवे यस्य सः
(x) ‘कर्मणः’ इत्यस्मिन् शब्दे का विभक्तिः ?
(क) चतुर्थी
(ख) द्वितीया
(ग) षष्ठी
(घ) सप्तमी
(xi) ‘पठित’ इत्यत्र कः लकारः ?
(क) लट्
(ख) लोट्
(ग) लृट्
(घ) लङ्
(xii) ‘कोविदः’ इत्यस्य शब्दस्य पर्यायपदं किम् ?
(क) विद्वान्
(ख) मूर्खः
(ग) कालिदासः
(घ) अपण्डितः
(xiii) ‘धैर्यशालिनः’ इत्यस्य शब्दस्य पर्यायपदं किम् ?
(क) मनुष्याः
(ख) प्रज्ञाः
(ग) लोकः
(घ) धीराः
(xiv) ‘शुभम्’ इत्यस्य शब्दस्य विलोमपदं किम् ?
(क) माङ्गलिकः
(ख) अशुभम्
(ग) दुर्लभम्
(घ) नरो
(xv) ‘कर्मणैव’ इति पदे कः सन्धिः ?
(क) वृद्धिसन्धिः
(ख) गुणसन्धिः
(ग) अयादिसन्धिः
(घ) पररूपसन्धिः
(xvi) ‘भयम्’ शब्दस्य विलोमपदमस्ति ?
(क) सभयम्
(ख) निर्भयम्
(ग) भयभीतः
(घ) नास्ति कोऽपि
(xvii) ‘खादित्वा’ इत्यत्र कः प्रत्ययः विद्यते ?
(क) क्त्वा
(ख) क्तवतु
(ग) तुमुन्
(घ) क्त
Haryana Board Class 12 Sanskrit 2025 Free PDF Download link
Other Importnat question paper:
Haryana Board (BSEH) Class-12 English-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Chemistry-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Physics-Previous Year Question Paper 2025 (HBSE) PDF Download (Free)