Haryana Board Bhiwani Class 12 Previous Year Question Paper
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)
CLASS : 12th (Sr. Secondary) Code No. 4905
Series : SS-M/2020
रोल नं०
SET : A
संस्कृत
SANSKRIT
ACADEMIC/OPEN
(Only for Fresh/Re-appear Candidates)
समय : 3 घण्टे |
| पूर्णांक: 80
• कृपया जाँच कर लें कि इस प्रश्न-पत्र में मुद्रित पृष्ठ 8 तथा प्रश्न 15 हैं।
• प्रश्न-पत्र में दाहिने हाथ की ओर दिये गये कोड नम्बर तथा सेट को छात्र उत्तर-पुस्तिका के मुख्य-पृष्ठ पर लिखें।
• कृपया प्रश्न का उत्तर लिखना शुरू करने से पहले, प्रश्न का क्रमांक अवश्य लिखें।
• उत्तर-पुस्तिका के बीच में खाली पन्ना/ पन्ने न छोड़ें।
• उत्तर-पुस्तिका के अतिरिक्त कोई अन्य शीट नहीं मिलेगी। अतः आवश्यकतानुसार ही लिखें और लिखा उत्तर न काटें।
• परीक्षार्थी अपना रोल नं० प्रश्न-पत्र पर अवश्य लिखें।
• कृपया प्रश्नों का उत्तर देने से पूर्व यह सुनिश्चित कर लें कि प्रश्न-पत्र पूर्ण व सही है, परीक्षा के उपरान्त इस सम्बन्ध में कोई भी दावा स्वीकार नहीं किया जायेगा।
Free PDF Download link given in last of this Post
Quarry Solved:
Class 12 ,BSEH , Haryana Board Previous Year Question Paper, HBSE Previous Year Question Paper, Haryana Board Class 12 Previous Year Question Paper, HBSE Class 12 Previous Year Question Paper, Haryana Board Class 12 Question Paper PDF, HBSE Class 12 Quest
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)
निर्देशः –
(i) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ii) प्रश्नसंख्याप्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।
(iii) श्रेष्ठाङ्कान् प्राप्तये सुवाच्यलेखोऽपेक्ष्यते।
खण्डः ‘क’
(अपठित-अवबोधनम्)
1. अधोलिखितम् अनुच्छेदं पठित्वा एतदाधारितानां प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत –
मतभेदस्य अभावः एकता इति उच्यते। मनुष्याणां सांसारिक-जीवनस्य कृते एकता महान् लाभकारी गुणः अस्ति। यदि संसारे मनुष्येषु एकता न स्यात् तर्हि तेषां एकदिनस्यापि जीवनं कठिनं सम्पद्यते। यत् कार्यं एकेन न कर्तुं शक्यते तद् बहूनां सम्मिलितेन समुदायेन सुगमतया एव भवति। वर्तमानसमये एकतायाः महान् अभावः अस्ति। एतस्य प्रधानं कारणं तु स्वार्थपरता एव अस्ति। सर्वे स्वकीयमेव हितं पश्यन्ति न अन्येषाम्। अतः एकतायाः स्थापनाय स्नेह-सौहार्द-वर्धनाय स्वार्थसाधनेन सहैव परेषामपि स्वार्थरक्षणाय अवधानं परमावश्यकं वर्तते।
प्रश्नाः – 2 × 5 = 10
(क) कस्य अभावः एकता इति उच्यते ?
(ख) यदि मनुष्येषु एकता न स्यात् तर्हि किं स्यात् ?
(ग) एकतायाः अभावस्य प्रधानं कारणं किमस्ति ?
(घ) एकतायाः स्थापनाय किमावश्यकं वर्तते ?
(ङ) सांसारिकजीवनस्य कृते लाभकारी गुणः कोऽस्ति ?
खण्डः ‘ख’
(रचनात्मक-कार्यम्)
2. विषयमेकमधिकृत्य लघुनिबन्धं संस्कृतभाषया रचयत – 6
(क) संस्कृतस्य महत्त्वम्।
(ख) अनुशासनम्।
(ग) प्रातःकालीनभ्रमणम्।
खण्डः ‘ग’
(पठित-अवबोधनम्)
3. अधोलिखितगद्यांशस्य हिन्दीभाषया सरलार्थ कार्यम् – 4
(क) तस्मै राज्ञे व्याघ्राय रत्नचतुष्ट्यं दास्यामि। एतेषां महात्म्यम्-एकं रत्नं यद् वस्तु स्मर्यते तद् ददाति। द्वितीयरत्नेन भोजनममृततुल्यमुपद्यते। तृतीयरत्नाच्चतुरङ्गबलं भवति। चतुर्थाद् रत्नाद् दिव्याभरणानि जायन्ते। तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छेत्।
अथवा
(ख) श्रीनारायणस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे बहुदिनेभ्यः स्थगितानां विविधसमस्यानामपि समाधानं जातम्। स्वकार्यं त्यक्त्वा अपरस्य सहकारस्तस्य परमधर्मः। सः प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धांशिकं भागं केरलं प्रेषयति स्म। तेनानुमीयते तस्य राज्येन सह अस्ति कश्चित् सम्पर्कः।
4. अधोलिखितश्लोकस्य हिन्दीभाषया सरलार्थ कार्यम् – 4
(क) तं भूमिपतिं भासुरहेमराशिं लब्धं कुबेरादिभिर्याच्यमानात्।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्।।
अथवा
(ख) अस्ति यद्यपि सर्वत्र नीरं नीरज-राजितम्।
रमते न मरालस्य मानसं मानसं विना।
5. अधोलिखितासु सूक्तिषु मात्र द्वयोः सूक्त्योः भावार्थं हिन्दीभाषया लेख्यम् – 2 × 2 = 4
(क) मा गृधः कस्यस्विद्धनम्।
(ख) सुलभसौख्यमिदानीं बालत्वं भवति।
(ग) नाशयति च पुरुषमत्यासक्तिं विषयेषु।
(घ) मानवा नाम सर्वासु सृष्टिषु निकृष्टतमा सृष्टिः।
6. अधोलिखितं गद्यांशं पठित्वा अधस्तनानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लेखितव्यानि –
भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि विशन्ति सुखेनोपदेशगुणाः। हरति अतिमलिनमपि दोषजातं गुरूपदेशः। गुरूपदेशश्च नाम अखिलमलप्रक्षालनक्षमम् अजलं स्नानम्।
प्रश्नाः – 2 × 1 = 2
(क) कीदृशे मनसि उपदेशगुणाः विशन्ति ?
(ख) गुरूपदेशः कम् हरति ?
7. अधोलिखित श्लोकं पठित्वा अधस्तनयोः प्रश्नयोः उत्तराणि संस्कृतभाषया लेखितव्यानि –
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।
प्रश्नाः –
(क) लोकः कम् अनुवर्तते ?
(ख) ‘कुरुते’ इत्यत्र कः धातुः ?
8. रेखाङ्कितपदमाश्रुत्य प्रश्ननिर्माणं कुरुत –
(क) अत्रैव परोपकारविचाराणाम् इति श्रीरभूत्।
(ख) तच्छ्रुत्वा राजा तूष्णीमासीत्।
खण्डः ‘घ’
(संस्कृतसाहित्यस्य-परिचयः)
9. महाकविबाणभट्टस्य अथवा महाकवेः भवभूतेः संक्षिप्तपरिचयः हिन्दीभाषया लेखितव्यः। 4
10. अधस्तनयोः पुस्तकयोः मध्ये एकस्य संक्षिप्तपरिचयः हिन्दीभाषया लेखनीयः – 4
(i) रघुवंशस्य
(ii) श्रीमद्भगवद्गीता।
खण्डः ‘ङ’
(छन्दोलङ्कार-परिचयः)
11. अधोनिर्दिष्टच्छन्दस्सु मात्रद्वयोः संस्कृतभाषया लक्षणोदाहरणौ लिखत – 2 × 4 = 8
(क) इन्द्रवज्रा
(ख) शिखरिणी
(ग) मालिनी
(घ) वंशस्थः
12. अथ प्रदत्तेषु अलङ्कारेषु द्वयोः लक्षणोदाहरणौ संस्कृतभाषया लिखत – 2 × 4 = 8
(क) अन्योक्तिः
(ख) श्लेषः
(ग) अनुप्रासः
(घ) उपमा
खण्डः ‘च’
(अनुप्रयुक्त-व्याकरणम्)
13. (क) ‘यण्सन्धेः’ अथवा ‘गुणसन्धेः’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
(ख) ‘अपादानकारकस्य’ अथवा ‘कर्तृकारकस्य’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
(ग) ‘अव्ययीभावसमासस्य’ अथवा ‘द्विगुसमासस्य’ परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
खण्डः ‘छ’
[ बहुविकल्पीय-वस्तुनिष्ठप्रश्नाः ]
14. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत – 6 × 1 = 6
(क) ‘तस्यौदार्यम्’ इति पदे कः सन्धिविच्छेदः ?
(i) तस्य + उदार्यम्
(ii) तस्य + औदार्यम्
(iii) तस्य + दार्यम्
(iv) तस्यौ + दार्यम्
(ख) ‘हि + एवम्’ इति पदे किं सन्धिपदम् ?
(i) ह्येवम्
(ii) ह्रवम्
(iii) हैवम्
(iv) ब्रैवम्
(ग) ‘नोपसर्पति’ इति पदे कः सन्धिः ?
(i) यण्सन्धिः
(ii) अयादिसन्धिः
(iii) दीर्घसन्धिः
(iv) गुणसन्धिः
(घ) ‘पशुसामान्याः’ इति पदे विग्रहोऽस्ति ?
(i) पशून् सामान्याः
(ii) पशूनां सामान्याः
(iii) पशवः सामान्याः
(iv) पशुः सामान्याः
(ङ) ‘दीर्घग्रीवः’ इति पदे कः समासः ?
(i) अव्ययीभावः
(ii) द्वन्द्वः
(iii) तत्पुरुषः
(iv) बहुव्रीहिः
(च) ‘यौवनात् प्रभवम्’ इति विग्रहे किं समस्तपदम् ?
(i) यौवनप्रभवम्
(ii) यौवनाप्रभवम्
(iii) यौवनप्रभः
(iv) यौवनप्रभवाः
15. लघूत्तरात्मक प्रश्नाः – 10 × 1 = 10
(i) ‘किम्’ नपुंसकलिङ्गे प्रथमा बहुवचने रूपं किम् ?
(ii) ‘विद्यया’ इति पदे का विभक्तिः ?
(iii) ‘शुश्रुम’ इति पदे कः धातुः ?
(iv) ‘प्राप्नोति’ इति पदे कः पुरुषः ?
(v) ‘त्यक्तुम्’ इति पदे कः प्रत्ययः ?
(vi) ‘क् + शत्’ अनयोः संयोगे किं रूपम् ?
(vii) ‘सह’ इति उपपदयोगे का विभक्तिः ?
(viii) ‘निकृष्टः’ इति पदस्य विलोमपदं किम् ?
(ix) ‘सुकृतम्’ इति पदस्य विलोमपदं लिखत।
(x) ‘वित्तम्’ इति पदस्य पर्यायवाचिपदं किम् ?
Haryana Board Class 12 Sanskrit 2020 Free PDF Downlaod link
Other Important Question Paper :
Haryana Board (BSEH) Class-12 Punjabi-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Psychology-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Poltical Science-Previous Year Question Paper 2020 (HBSE) PDF Download (Free)