Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)
CLASS : 12th (Sr. Secondary) Series : SS/Annual-2023
रोल नं
SET : A
संस्कृत SANSKRIT ACADEMIC/OPEN
(Only for Fresh/Re-appear/Improvement/Additional Candidates)
समय : 3 घंटे]
[ पूर्णांक : 80
• कृपया जाँच कर लें कि इस प्रश्न-पत्र में मुद्रित पृष्ठ 8 तथा प्रश्न 15 हैं।
• प्रश्न-पत्र में दाहिने हाथ की ओर दिये गये कोड नम्बर तथा सेट को छात्र उत्तर-पुस्तिका के मुख्य-पृष्ठ पर लिखें।
• कृपया प्रश्न का उत्तर लिखना शुरू करने से पहले, प्रश्न का क्रमांक अवश्य लिखें।
• उत्तर-पुस्तिका के बीच में खाली पन्ना/पन्ने न छोड़ें।
• उत्तर-पुस्तिका के अतिरिक्त कोई अन्य शीट नहीं मिलेगी। अतः आवश्यकतानुसार ही लिखें और लिखा उत्तर न काटें।
• परीक्षार्थी अपना रोल नं० प्रश्न-पत्र पर अवश्य लिखें। रोल नं० के अतिरिक्त प्रश्न-पत्र पर अन्य कुछ भी न लिखें और वैकल्पिक प्रश्नों के उत्तरों पर किसी प्रकार का निशान न लगाएँ।
• कृपया प्रश्नों के उत्तर देने से पूर्व यह सुनिश्चित कर लें कि प्रश्न-पत्र पूर्ण व सही है, परीक्षा के उपरान्त इस सम्बन्ध में कोई भी दावा स्वीकार नहीं किया जायेगा।
Free PDF Download link given in last of this Post
Quarry Solved:
Class 12 ,BSEH , Haryana Board Previous Year Question Paper, HBSE Previous Year Question Paper, Haryana Board Class 12 Previous Year Question Paper, HBSE Class 12 Previous Year Question Paper, Haryana Board Class 12 Question Paper PDF, HBSE Class 12 Quest
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)
सामान्य निर्देश :
(i) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ii) प्रश्नसंख्याः प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयाः।
(iii) श्रेष्ठाङ्कान् प्राप्तुं सुवाच्यलेखोऽपेक्ष्यते।
खण्डः – ‘क’
(अपठित-अवबोधनम्)
1. अधोलिखितं गद्यांशं पठित्वा निम्नांकितप्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत -
कस्मिंशित् ग्रामे जयसुन्दरः नाम युवकः स्वपत्न्या सह वसति स्म। सः प्रतिदिनम् आखेटे रतः। सः वने विचरन् बहून् पशून् हतवान्। तस्य अनेन पशुहिंसाजन्येन कार्येण पत्नी नितरां खिन्ना अभवत्। सा धर्मपरायणा सुशीला च नारी आसीत्। तस्यै पतिकार्यं सर्वथा नारोचत। सा वारं वारं पशुहिंसाकार्यं त्यक्तुं तं बोधयति स्म-यत् एतत्कार्यं त्यक्त्वा पशवः रक्ष्यन्ताम् इति।
प्रश्नाः :- 5 × 2 = 10
(क) जयसुन्दरः कया सह वसति स्म ?
(ख) जयसुन्दरः कस्मिन् कार्ये रतः ?
(ग) जयसुन्दरस्य पत्नी किमर्थं खिन्ना अभवत् ?
(घ) जयसुन्दरस्य पत्नी स्वपतिं बोधयितुं किमवदत् ?
(ङ) ‘तस्यै’ इति पदे का विभक्तिः अस्ति, किमर्थं च।
खण्डः – ‘ख’
(रचनात्मकं-कार्यम्)
2. एकं लघुनिबन्धं संस्कृतभाषया रचयत -
(क) मम प्रियः कविः,
(ख) अनुशासनम्,
(ग) स्वामी विवेकानन्दः।
खण्डः – ‘ग’
(संस्कृत-साहित्य-परिचयः)
3. महाकविकालिदासस्य अथवा श्रीभट्ट मथुरानाथशास्त्रिणः संक्षिप्तपरिचयं हिन्दीभाषया लिखत। 4
4. ईशावास्योपनिषद् अथवा पाषाणीकन्याग्रन्थस्य संक्षिप्तपरिचयं हिन्दीभाषया लिखत। 4
खण्डः – ‘घ’
(छन्दोलङ्कार-परिचयः)
5. प्रदत्तछन्दस्सु द्वयोः संस्कृतभाषया लक्षणम् उदाहरणं च लिखत – 2 × 4 = 8
(i) अनुष्टुप्, (ii) वंशस्थः,
(iii) उपजाति, (iv) मन्दाक्रान्ता।
6. प्रदत्त-अलंकारेषु द्वयोः संस्कृतभाषया लक्षणम् उदाहरणं च लिखत – 2 × 4 = 8
(i) उपमा, (ii) अर्थान्तरन्यासः,
(iii) अनुप्रासः, (iv) उपेक्षा।
खण्डः – ‘ङ’
(अनुप्रयुक्त-व्याकरणम्)
7. (क) कर्म अथवा अधिकरणकारकस्य परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
(ख) स्वरसन्धेः अथवा अयादिसन्धेः परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
(ग) अव्ययीभाव अथवा द्विगुसमासस्य परिभाषां सोदाहरणं हिन्दीभाषया लिखत। 2
खण्डः – ‘च’
(पठित-अवबोधनम्)
8. अधोलिखितगद्यांशस्य प्रसङ्गं सरलार्थं लिखत – 4
(क) ततो राजावदत्, ‘भो ब्राह्मण ! भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य आगतः। मया सर्वोऽपि ब्राह्मणसमूहो दक्षिणया तोषितः। तर्हि त्वमेतेषां रत्नानां मध्ये यत्तुभ्यं रोचते तद्गृहाणेति।
अथवा
(ख) स्वकार्यं त्यक्त्वा अपरस्य सहकारस्तस्य परमधर्मः। स प्रतिमासं प्रथमदिवसे स्ववेतनस्य अर्धांशिकं भागं केरलं प्रेषयति स्म। तेनानुमीयते तस्य राज्येन सह अस्ति कश्चित् सम्पर्कः।
9. प्रदत्तश्लोकस्य प्रसङ्गं सरलार्थं लिखत – 4
(क) असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।।
अथवा
(ख) सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।।
10. प्रदत्तसूक्तिषु द्वयोः भावार्थं हिन्दीभाषया लिखत – 2 × 2 = 4
(क) अपरिणामोपशमो दारुणो लक्ष्मीमदः।
(ख) सुलभसौख्यमिदानीं बालत्वं भवति।
(ग) न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।
(घ) कोटीश्चतुरो दश चाहुर्।
11. प्रदत्तगद्यांशं पठित्वा अधः प्रदत्तप्रश्नानामुत्तराणि संस्कृतभाषया लिखत – 2 × 1 = 2
मयानुभूतमस्ति यदयं कुटिलः ‘किन्तुः’ नानादेशेषु नानारूपाणि सन्धार्य गुप्तं विचरति। यथैव लोकानां कार्यसिद्धेरवसरः समुपतिष्ठते तथैवायं प्रकटीभूय लोकानां कार्याणि यथावस्थितमवरुणद्धि।
प्रश्नौ :-
(क) कः लोकानां कार्याणि अवरुणद्धि ?
(ख) ‘यथैव’ इत्यस्मिन् पदे कः सन्धः ?
12. प्रदत्तश्लोकं पठित्वा अधः प्रदत्तप्रश्नानामुत्तराणि संस्कृतभाषया लिखत – 2 × 1 = 2
कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् कुर्वन्ति महान्ति।।
प्रश्नौ :-
(क) जनकादयः केनैव संसिद्धिमास्थिताः ?
(ख) ‘संपश्यन्’ इत्यस्मिन् पदे कः धातुः ?
13. रेखांकितपदम् आधृत्य प्रश्ननिर्माणं कुरुत –
(क) दिदेश कौत्साय समस्तमेव।
(ख) तावदकस्मादुत्थितो महान् झञ्झावातः।
खण्डः – ‘छ’
(लघुतरात्मकप्रश्नाः)
14. मञ्जूषागतं पदम् आधृत्य वाक्यं पूरयत – 4 × 1 = 4
(i) रामः ………… सह वनमगच्छत्। (सीताम्/सीतया)
(ii) …………… नमः। (गुरुम्/गुरुभ्यः)
(iii) सः ………… खञ्जः। (पादेन/पादात्)
(iv) …………… परितः वृक्षाः सन्ति। (विद्यालयम्/विद्यालयस्य)
खण्डः – ‘ज’
(बहुविकल्पीयप्रश्नाः)
15. प्रदत्तविकल्पेषु शुद्धम् उत्तरं चित्वा लिखत - 12 × 1 = 12
(क) ‘हिंसावृत्तिः’ इत्यत्र विग्रहः अस्ति –
(i) हिंसाः वृत्तिः
(ii) हिंसायाः वृत्तिः
(iii) हिंसां वृत्तिः
(iv) हिंसात् वृत्तिः
(ख) ‘शान्तिश्च सुखं च’ इत्यत्र समस्तपदं भवति –
(i) शान्तिसुखम्
(ii) शान्तिसुखे
(iii) शान्तिसुखानि
(iv) शान्तिसुखः
(ग) ‘महान्धकारः’ इत्यत्र समासः अस्ति –
(i) कर्मधारयः
(ii) द्वन्द्वः
(iii) द्विगुः
(iv) बहुव्रीहिः
(घ) ‘अनार्य’ इत्यस्य विग्रहः अस्ति –
(i) न आर्यः
(ii) अनार्य या
(iii) न आर्य
(iv) अनार्यः या
(ङ) ‘स्वल्पम्’ इत्यस्य सन्धिच्छेदः अस्ति –
(i) स्व + अल्पम्
(ii) सु + अल्पम्
(iii) सु + वल्पम्
(iv) सू + अल्पम्
(च) ‘कः + अपि’ इत्यस्य सन्धिपदं भवति –
(i) कोऽपि
(ii) कोपि
(iii) किमपि
(iv) कपि
(छ) ‘तत् + थावतः’ इत्यस्य सन्धिपदं भवति –
(i) तथावतः
(ii) तद्धावतः
(iii) तद्धावतः
(iv) तद्वावतः
(ज) ‘हिंसावृत्तिस्तु’ इत्यस्य सन्धिच्छेदः किम् ?
(i) हिंसावृत्तिम् + तु
(ii) हिंसावृत्तिः + तु
(iii) हिंसावृत्तिं + तु
(iv) हिंसावृत्तिः + अस्तु
(झ) ‘वि + कृ + त्यप्’ संयोगेन रूपम् –
(i) विकित्य
(ii) विकृत्या
(iii) विकृय
(iv) विकृत्य
(ञ) ‘कुर्वाणः’ इत्यस्य प्रकृतिप्रत्ययौ स्तः –
(i) कुर् + आणः
(ii) कुर् + वाणः
(iii) कु + आणः
(iv) कु + शानच्
(ट) ‘सिद्धम्’ इत्यत्र प्रकृतिप्रत्ययौ स्तः –
(i) सिद् + क्त
(ii) सिध् + क्तवतु
(iii) सिध् + क्तिन्
(iv) सिध् + क्त
(ठ) ‘उप + दिश् + तव्यत्’ इत्यस्य सिद्धपदम् अस्ति –
(i) उपदेष्टव्यम्
(ii) उपदेशनीयम्
(iii) उपदिष्टव्यम्
(iv) उपदिष्टम्
Haryana Board Class 12 Sanskrit 2023 Free PDF Download link
Other Importnat Question paper:
Haryana Board (BSEH) Class-12 Punjabi-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Mathematics-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Biology-Previous Year Question Paper 2023 (HBSE) PDF Download (Free)