Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)
CLASS : 12th (Sr. Secondary) Series : SS/Annual Exam.-2024
रोल नं
SET : A
संस्कृत SANSKRIT ACADEMIC/OPEN
(Only for Fresh/Re-appear/Improvement/Additional Candidates)
समय : 3 घंटे]
[ पूर्णांक : 80
• कृपया जाँच कर लें कि इस प्रश्न-पत्र में मुद्रित पृष्ठ 15 तथा प्रश्न 14 हैं।
• प्रश्न-पत्र में दाहिने हाथ की ओर दिये गये कोड नम्बर तथा सेट को छात्र उत्तर-पुस्तिका के मुख्य-पृष्ठ पर लिखें।
• कृपया प्रश्न का उत्तर लिखना शुरू करने से पहले, प्रश्न का क्रमांक अवश्य लिखें।
• उत्तर-पुस्तिका के बीच में खाली पन्ना/पन्ने न छोड़ें।
• उत्तर-पुस्तिका के अतिरिक्त कोई अन्य शीट नहीं मिलेगी। अतः आवश्यकतानुसार ही लिखें और लिखा उत्तर न काटें।
• परीक्षार्थी अपना रोल नं० प्रश्न-पत्र पर अवश्य लिखें। रोल नं० के अतिरिक्त प्रश्न-पत्र पर अन्य कुछ भी न लिखें और वैकल्पिक प्रश्नों के उत्तरों पर किसी प्रकार का निशान न लगाएँ।
• कृपया प्रश्नों के उत्तर देने से पूर्व यह सुनिश्चित कर लें कि प्रश्न-पत्र पूर्ण व सही है, परीक्षा के उपरान्त इस सम्बन्ध में कोई भी दावा स्वीकार नहीं किया जायेगा।
Free PDF download link given in last of this Post
Quarry Solved:
Class 12 ,BSEH , Haryana Board Previous Year Question Paper, HBSE Previous Year Question Paper, Haryana Board Class 12 Previous Year Question Paper, HBSE Class 12 Previous Year Question Paper, Haryana Board Class 12 Question Paper PDF, HBSE Class 12 Quest
Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)
सामान्य निर्देश :
(i) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ii) प्रश्नसंख्याप्रश्नपत्रानुसारम् अवश्यमेव लेखनीयाः।
(iii) श्रेष्ठाङ्कान् प्राप्तये सुस्पष्टः लेखः लेखनीयः।
खण्डः - ‘क’ (अपठितम् अवबोधनम्)
1. अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि यथानिर्देशं संस्कृतेन लिखत -
संसारस्य प्रायेण सर्वेष्वपि देशेषु ऋतुराजवसन्तस्य स्वागतोत्सवः क्रियते। भारतवर्षे तु विशेषेण नवान्नस्य आगमनकालोऽयम्। अत एव नवधान्यं गृहे दृष्ट्वा कृषकाः हृष्यन्ति सोत्साहं चोत्सवं कुर्वन्ति। इदमपि किल स्मर्यते यत् पुरा खलु हिरण्यकशिपुर्नाम देवरिपुरासीत्। सः हरिभक्तिपरायणं प्रह्लादनामानं स्वसुतं भस्मीकर्तुकामोऽभवत्। तस्य स्वसा होलिका तत्कर्मसम्पादनाय प्रवृत्ता। तत्र च होलिका वराकी भस्मीभूता, भगवद्रसादात् च अग्निज्वालाऽवलीढोऽपि प्रह्लादः सुरक्षितः आसीत्। तस्मादेव च लोकैः प्रतिवर्षं होलिकादाहो विधीयते।
प्रश्नः –
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) - 2 × 1 = 2
(क) कस्य स्वागतोत्सवः क्रियते ?
(ख) भारतवर्षे तु विशेषेण कस्य आगमनकालोऽयम् ?
(ग) नवधान्यं दृष्ट्वा के हृष्यन्ति ?
(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्) - 2 × 2 = 4
(क) पुरा खलु किं नाम देवरिपुरासीत् ?
(ख) कः हरिभक्तिपरायणं स्वसुतं भस्मीकर्तुकामोऽभवत् ?
(ग) लोकैः प्रतिवर्षं किं विधीयते ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1 × 1 = 1
(द) यथानिर्देशम् उत्तरत (केवलं प्रश्नत्रयम्) – 3 × 1 = 3
(क) ‘निजपुत्रम्’ इत्यस्य पर्यायपदम् अस्ति –
(i) नवधान्यम् (ii) स्वसुतम् (iii) चोत्सवम् (iv) सोत्साहम्
(ख) ‘संसारस्य’ इति पदे विभक्तिः अस्ति –
(i) द्वितीया (ii) सप्तमी (iii) षष्ठी (iv) पंचमी
(ग) ‘तत्र च होलिका वराकी भस्मीभूता’ इत्यत्र ‘होलिका’ पदस्य विशेषणम् अस्ति –
(i) तत्र (ii) च (iii) वराकी (iv) भस्मीभूता
(घ) ‘सः हरिभक्तिपरायणं प्रह्लादनामानं .................... अभवत्’ इत्यस्मिन् वाक्ये ‘अभवत्’ क्रियायाः कर्तृपदम् अस्ति –
(i) हरिभक्तिपरायणम् (ii) सः (iii) प्रह्लादनामानम् (iv) स्वसुतम्
खण्डः – ‘ख’ (रचनात्मकं कार्यम्)
2. विषयमेकमधिकृत्य लघुनिबन्धं संस्कृतभाषया लिखत – 1 × 6 = 6
(क) संस्कृतभाषायाः महत्त्वम्।
(ख) स्वच्छतायाः महत्त्वम्।
(ग) मम प्रियः कविः।
(घ) विद्यार्थिजीवने अनुशासनस्य महत्त्वम्।
(छन्द-अलङ्कार-परिचयः)
3. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम्) - 3 × 2 = 6
(क) कस्मिन् छन्दसि प्रत्येकं चरणे अष्टौ वर्णाः भवन्ति ?
(ख) वंशस्थछन्दसः उदाहरणं किम् ?
(ग) इन्द्रवज्राछन्दसि प्रत्येकं चरणे कति वर्णाः भवन्ति ?
(घ) उक्तावसन्ततिलका .................... ?
4. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम्) - 3 × 2 = 6
(क) अनुप्रासस्य अलङ्कारस्य उदाहरणं किम् ?
(ख) यमकालङ्कारस्य लक्षणं किम् ?
(ग) उपमालङ्कारस्य लक्षणं किम् ?
(घ) तद्रूपकमभेदो य ................ ?
खण्डः – ‘ग’ (पठितावबोधनम्)
5. अधोलिखितपद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत – 1 × 4 = 4
अन्यदेवाहुर्बिद्यया अन्यदाहुरविद्यया।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।।
अथवा
समाप्तविद्येन मया महर्षि –
विज्ञापितोऽभूद्गुरुदक्षिणायै।
स मे चिरायास्खलितोपचारां
तां भक्तिमेवागणयत्पुरस्तात्।।
6. अधोलिखितगद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत – 1 × 4 = 4
अरण्यगर्भरूपालापैर्यूयं तोषिता वयं च। भगवति ! जानामि त्वं पश्यन्ती वञ्चितेव। तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे तावत् पलायमानं दीर्घायुषम्।
अथवा
भवादृशा एव भवन्ति भाजनान्युपदेशानाम्। अपगतमले हि मनसि विशन्ति सुखेनोपदेशगुणाः। हरति अतिमलिनमपि दोषजातं गुरूपदेशः।
7. अधोलिखितासु सूक्तिषु मात्रद्वयोः सूक्त्योः भावार्थं हिन्दीभाषया लिखत – 2 × 2 = 4
(क) न कर्म लिप्यते नरे।
(ख) मानवानाम् सर्वासु सृष्टिधारासु निकृष्टतमा सृष्टिः।
(ग) उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
(घ) प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः।
अथवा
कुर्वन्नेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।
अन्वयः - इह (1) ............ कुर्वन् एव शतम् (2) ............ जिजीविषेत् एवं कर्म (3) ............ नरे न लिप्यते। इतः (4) ............ न अस्ति।
मञ्जूषा
अन्यथा, त्वयि, समाः, कर्माणि
8. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि श्लोकात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत (केवलं प्रश्नत्रयम्) – 3 × 1 = 3
पापान्निवारयति योजयते हिताय,
गुह्यं निगृह्णाति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले,
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः।।
प्रश्नाः –
(क) मित्रं कस्मान्निवारयति ?
(ख) मित्रस्य कान् प्रकटीकरोति ?
(ग) मित्रं कदा न जहाति ?
(घ) सन्मित्रलक्षणमिदं के प्रवदन्ति ?
9. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि गद्यांशात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत (केवलं प्रश्नत्रयम्) – 3 × 1 = 3
मनुष्याणां हिंसावृत्तिस्तु निरवग्रहा। पशुहत्या तु तेषां आक्रीडनम्। केवलं विलुलितचित्तविनोदाय महारण्यम् उपगम्य ते यथेष्टं निर्दयं च पशुघातं कुर्वन्ति।
प्रश्नः –
(क) पशुहत्या केषाम् आक्रीडनम् ?
(ख) मनुष्याणां हिंसावृत्तिः कीदृशी ?
(ग) विलुलितचित्तविनोदाय कुत्र उपगच्छन्ति ?
(घ) ते यथेच्छं निर्दयं च किम् कुर्वन्ति ?
10. कोष्टकाद् उपयुक्तशब्दं चित्वा रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) निकष्टुमर्थं चकमे कुबेरात्। (कस्मात्/केन)
(ख) कर्मणैव हि संसिद्धिमास्थिता जनकादयः। (केनैव/कैश्चनेव)
(ग) श्रीदासः तत्पत्रम् उद्धाटितवान्। (कः/कस्य)
(घ) लवः मुखचन्द्रेण सीतया संवदत्येव। (कया/कस्याः)
(ङ) दूरमित्रान्तः स चपलः दृश्यते। (कीदृक्/कीदृशः)
(संस्कृत-साहित्य-परिचयः)
11. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया एकदैव लिखत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) प्राचीनतमः वेदः कः ?
(ख) ‘कादम्बरी’ कस्य रचना ?
(ग) वेदव्यासस्य रचना का ?
(घ) श्रीमद्भगवद्गीतायां कति अध्यायाः सन्ति ?
(ङ) रामायणे कति श्लोकाः सन्ति ?
12. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया एकदैव लिखत (केवलं प्रश्नचतुष्टयम्) - 4 × 1 = 4
(क) शिवराजविजयस्य रचयिता कः ?
(ख) ‘बालकौतुकम्’ इति पाठः कस्मात् ग्रन्थात् उद्धृतः ?
(ग) आदिकविना वाल्मीकिना कः ग्रन्थः रचितः ?
(घ) ‘बाणभट्टस्य’ का कथारचना वर्तते ?
(ङ) ‘अभिज्ञानशाकुन्तलम्’ इति रचनायाः रचयिता कः ?
13. (क) स्वरसन्धेः अथवा गुणसन्धेः परिभाषां हिन्दीभाषया उदाहरणं च संस्कृतभाषया लिखत। 1 × 2 = 2
(ख) अव्ययीभावसमासस्य अथवा द्वन्द्वसमासस्य परिभाषां हिन्दीभाषया उदाहरणं च संस्कृतभाषया लिखत। 1 × 2 = 2
(ग) करणकारकस्य अथवा अधिकरणकारकस्य परिभाषां हिन्दीभाषया उदाहरणं च संस्कृतभाषया लिखत। 1 × 2 = 2
खण्डः – ‘ङ्’ (पाठ्यपुस्तक-आधारिताः बहुविकल्पीयाः प्रश्नाः)
14. अधोनिर्दिष्टेषु प्रश्नेषु प्रदत्तवैकल्पिकचतुर्भ्यः उत्तरेभ्यः एकं शुद्धम् उत्तरं चित्वा लिखत - 16 × 1 = 16
(क) ‘आहुः + अविद्यया’ इत्यस्य पदस्य सन्धिपदं भवति –
(i) आहुर्विवद्या (ii) आहुरविद्या
(iii) आहुःविद्या (iv) आहुविद्या
(ख) ‘तांस्ते’ इत्यस्मिन् पदे कः सन्धिविच्छेदः ?
(i) तान् + ते (ii) तांस् + ते
(iii) तांन् + ते (iv) ताम् + ते
(ग) ‘गुरु + उपदेशः’ इत्यस्मिन् पदे किं सन्धिपदम् ?
(i) गुर् + उपदेशः (ii) गुरूपदेशः
(iii) गुरोपदेशः (iv) गुरवादेशः
(घ) ‘कुर्वन्’ इत्यस्मिन् पदे कः प्रत्ययः ?
(i) शानच् (ii) वन्
(iii) शतृ (iv) उवन्
(ङ) ‘उक्त्वा’ इत्यस्मिन् पदे कः प्रत्ययः ?
(i) क्त्वा (ii) तुमुन्
(iii) क्तवतु (iv) उत्
(च) ‘अवेक्ष्य’ इत्यस्मिन् पदे कः प्रत्ययः ?
(i) क्त्वा (ii) वेक्ष्य
(iii) ल्यप् (iv) ईक्ष्य
(छ) ‘उपात्तविभवः’ इत्यस्मिन् पदे कः समासः ?
(i) बहुव्रीहिसमासः (ii) अव्ययीभावसमासः
(iii) तत्पुरुषसमासः (iv) द्वन्द्वसमासः
(ज) ‘वरतन्तुशिष्यः’ इत्यस्य पदस्य कः विग्रहः ?
(i) वरतन्तुः शिष्यः (ii) वरतन्तुः शिष्यः
(iii) वरतन्तोः शिष्यः (iv) शिष्यस्य वरतन्तुः
(झ) ‘विनयेन शिशिरः’ अनयोः पदयोः समस्तपदं किम् ?
(i) विनयशिशिरः
(ii) विनयातिशिशिरः
(iii) विनयेनशिशिरः
(iv) विनयस्य शिशिरः
(ञ) ‘एकवारमपि स्वराज्यं ……… प्रति गमनाय इच्छां न प्रकटितवान्’ इत्यत्र समुचितं पदं पूरयत –
(i) केरलम् (ii) केरलात् (iii) केरलः (iv) केरलस्य
(ट) ‘मरालस्य मानसं मानसं …………… न रमते’ इत्यत्र समुचितं पदं पूरयत –
(i) कृते (ii) अलम् (iii) विना (iv) बहु
(ठ) ‘धीराः’ इत्यस्य पदस्य पर्यायपदं किम् ?
(i) धैर्यमानिनः (ii) धैर्यशालिनः (iii) धैर्यपालिनः (iv) नोचितम्
(ड) ‘मृत्युम्’ इत्यस्य पदस्य विलोमपदं किम् ?
(i) जीवनम् (ii) प्राणाः (iii) श्वसनम् (iv) ओदनम्
(ढ) ‘तमसा’ इत्यस्य पदस्य विलोमपदं किम् ?
(i) प्रकाशेन (ii) प्रकाशः
(iii) प्रकाशाय (iv) प्रकाशात्
(ण) ‘सकलगुणनिवासः’ इत्यस्य पदस्य विशेष्यपदं किम् ?
(i) ब्राह्मणः (ii) विक्रमः
(iii) रत्नम् (iv) समुद्रम्
(त) ‘अतिमलिनम्’ इत्यस्य शब्दस्य विशेषणपदं किम् ?
(i) यौवनप्रभवात् (ii) दोषजातम्
(iii) यौवनप्रभवस्य (iv) दोषान्
Haryana Board Class 12 Sanskrit 2024 Free PDF download link
Other Important Question Paper:
Haryana Board (BSEH) Class-12 Punjabi-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Mathematics-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Home Science-Previous Year Question Paper 2024 (HBSE) PDF Download (Free)