Haryana Board Class 10 Sanskrit Previous Year Question Paper 2025 PDF Download (Free)
निर्देशाः –
(i) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ii) प्रश्नसंख्याः प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयाः।
(iii) श्रेष्ठाङ्कान् प्राप्तये सुस्पष्टलेखः लेखनीयः।
खण्डः ‘क’
(अपठित-अवबोधनम्)
1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानामुत्तराणि यथानिर्देशं संस्कृतेन लिखत –
द्वापरयुगे हस्तिनापुरे शान्तनुः नाम राजा अभवत्। तस्य पुत्रस्य नाम देवव्रतः आसीत्। सः पराक्रमी आसीत् तस्य मातुः नाम गंगा आसीत्। अतः जनाः तं ‘गांगेय’ इत्यपि कथयन्ति स्म। सः बालब्रह्मचारी पितृभक्तश्च आसीत्। देवव्रतस्य कठोर प्रतिज्ञावशात् पितामहः भीष्मः इति तस्य नाम अभवत्।
प्रश्नाः –
(अ) एकपदेन उत्तरत –
2 x 1 = 2
(i) शान्तनोः पुत्रस्य किं नाम आसीत् ?
(ii) हस्तिनापुरे कः राजा अभवत् ?
(आ) पूर्णवाक्येन उत्तरत – 2 × 2 = 4
(i) देवव्रतस्य मातुः नाम किम् आसीत् ?
(ii) राजा शान्तनुः कस्य पिता आसीत् ?
(इ) यथानिर्दिष्टम् उत्तरत – 3 × 1 = 3
(i) ‘अभवत्’ पदे कः लकारः ?
(ii) ‘नृपः’ पदस्य पर्याय पदं लिखत गद्यांशतः।
(iii) ‘पितामहः’ पदस्य हिन्दी अर्थं लिखत।
(ई) गद्यांशस्य उचितं शीर्षकं लिखत। 1 × 1 = 1
खण्डः ‘ख’
(रचनात्मक-कार्यम्)
2. (क) प्रदत्त प्रार्थना-पत्रं पठित्वा मञ्जूषातः उचित पदानि चित्वा रिक्तस्थानानि पूरयत – 4 × 1 = 4
पूज्य पितृ चरणयोः ............(i)........।
अत्र कुशलं .........(ii)........। अद्यैव मम नवम-कक्षायाः परिणामः आगतः। अहं कक्षायां प्रथमं स्थानं .........(iii).........। शीघ्रमेव मम दशम कक्षायाः अध्ययनं प्रारप्स्यते। अहं .........(iv)......... क्रेतुमिच्छामि। एतदर्थं भवान् मह्यं सहस्ररूप्यकाणि प्रेषयेत्। मातृचरणेषु प्रणामाः।
भवतः पुत्रः,
मोहनः
## मञ्जूषा
पुस्तकानि, लब्धवान्, प्रणामाः, तत्रास्तु
(ख) निर्दिष्टचित्रं दृष्ट्वा वाक्यानि पठित्वा च मञ्जूषायाः उचितपदैः रिक्तस्थानानि पूरयित्वा लिखत – 4 × 1 = 4
वाक्यानि –
(i) चित्रे अस्मिन् एकः विशालः ................. अस्ति।
(ii) वृक्षोपरि खगाः .................।
(iii) अधः मयूरः .................।
(iv) जले ................. बालकः स्नानं करोति।
मञ्जूषा
एकः, वृक्षः, नृत्यति, सन्ति।
खण्डः ‘ग’
(पठित-अवबोधनम्)
3. गद्यांशं पठित्वा हिन्दीभाषया सप्रसङ्गं सरलार्थं लिखत –
1 × 4 = 4
अस्ति देवलाख्यो ग्रामः। तत्र राजसिंह नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितृगृहं प्रति चलिता।
अथवा
वनस्य दृश्यं समीपे एव एका नदी वहति। एकः सिंहः सुखेन विश्राम्यति। तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः।
4. श्लोकं पठित्वा हिन्दीभाषया सम्पूर्णं सरलार्थं लिखत –
1 × 4 = 4
वायुमण्डलं भूश्च दूषितं न हि निर्मलं जलम्।
कुलित वस्तुमित्रितं भक्ष्यं समलं धरातलम्।।
अथवा
आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।
नास्ति उद्यमसमो बन्धुः कृत्वा यं नावसीदति।।
5. मात्र द्वयोः सूक्तयोः भावार्थं हिन्दीभाषया लिखत –
2 × 2 = 4
(क) शुचि पर्यावरणम्।
(ख) बुद्धिर्बलवती सदा।
(ग) जननी तुल्यवत्सला।
अथवा
सान्वयं श्लोकस्य रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत –
4 x 1 = 4
श्लोकः –
सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते।।
अन्वयः –
फलच्छायासमन्वितः ............(1)............ सेवितव्यः ............(2)............ यदि ............(3)............ नास्ति ............(4)............ केन निवार्यते।।
मञ्जूषा
फलं, महावृक्षः, छाया, दैवात्
6. प्रदत्तं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतपूर्णवाक्येन लिखत –
3 x 1 = 3
तदैव एकः वानरः आगत्य सिंहस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः।
(क) सिंहस्य पुच्छं कः धुनोति ?
(ख) वानरः कुत्र आरूढः ?
(ग) ‘तदैव’ पदे सन्धिच्छेदं कुरुत।
7. श्लोकं पठित्वा प्रदत्तप्रश्नानामुत्तराणि संस्कृतवाक्येन लिखत –
2 x 1 = 2
एकेन राजहंसेन या शोभा सरसो भवेत्।
न सा बकसहस्रेण परितस्तीरवासिना।।
प्रश्नाः –
(क) केन सरसः शोभा भवेत् ?
(ख) ‘राजहंसेन’ पदे का विभक्तिः ?
8. रेखांकितं पदमाधृत्य प्रश्ननिर्माणं कुरुत कोष्टकपदसहायतया –
3 x 1 = 3
(क) पुत्रं द्रष्टुं सः प्रस्थितः।
(किम्/किमर्थम्)
(ख) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः। (कस्याः/कस्य)
(ग) न्यायाधीशः बंकिम चन्द्रः आसीत्। (कः/कम्)
9. प्रश्नपत्रे लिखितश्लोकान् त्यक्त्वा ‘शेमुषी-2’ पुस्तकाद् एक श्लोकं संस्कृतेन लिखत। 1 x 4 = 4
खण्डः ‘घ’
(अनुप्रयुक्त-व्याकरणम्)
10. (क) स्वरसन्धेः अथवा व्यंजनसन्धेः परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतेन लिखत। 2 × 1 = 2
(ख) द्वन्द्व अथवा द्विगुसमासस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतेन लिखत। 2 × 1 = 2
(ग) कर्तरि अथवा करणकारकस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतेन लिखत। 2 × 1 = 2
11. यथानिर्दिष्ट शब्दरूपाणि लिखत (बहुवचनम्) – 4 × 1 = 4
(क) ‘लता’ – शब्दस्य प्रथमा–बहुवचने।
(ख) ‘राम’ – शब्दस्य द्वितीया-द्विवचने।
(ग) ‘किम्’ (पु०) – शब्दस्य तृतीया-एकवचने।
(घ) ‘कवि’ – शब्दस्य चतुर्थी-एकवचने।
(ङ) ‘अस्मद्’ – शब्दस्य प्रथमा-बहुवचने।
12. यथानिर्दिष्ट धातुरूपाणि लिखत (चतुर्थांश) – 4 × 1 = 4
(क) ‘पा’ (पिब्) – धातोः लट्लकारस्य प्र० पु० एकवचने।
(ख) ‘दृश्’ (पश्य) - धातोः लुट्लकारस्य म० पु० द्विवचने।
(ग) ‘गम्’ (गच्छ) - धातोः लङ्लकारस्य उ० पु० बहुवचने।
(घ) ‘कृ’ - धातोः लट्लकारस्य प्र० पु० बहुवचने।
(ङ) ‘अस्’ - धातोः लङ्लकारस्य प्र० पु० एकवचने।
13. उपपदविभक्ति वाक्येषु उचित विभक्ति पदेन रिक्तस्थानानि पूरयत कोष्ठकपदैः (त्रयाणामेव) – 3 × 1 = 3
(क) सूरदासः …………… अन्धः। (नेत्रेण/नेत्राभ्याम्)
(ख) गुरुः …………… कुर्वति। (शिष्यं/शिष्याय)
(ग) सीता …………… सह वनं गच्छति। (रामाय/रामेण)
(घ) धनं …………… न सुखम्। (विना/ऋते)
14. अव्ययपदानां सहायतया त्रयाणां रिक्तस्थानानि पूरयत – 3 × 1 = 3
(क) प्रकृतिः ................ शरणम्। (एव/च)
(ख) दुर्वहम् ................ जीवितं जातम्। (कृत्र/अत्र)
(ग) भ्रमित ................ वक्रम्। (कदा/सदा)
(घ) ................ राजसिंहः वसति स्म। (तत्र/सर्वत्र)
15. पदेभ्यः उपसर्गान् पृथक् कृत्वा लिखत (केवलं द्वयम्) –
2 × 1 = 2
(क) पर्यावरणम्
(ख) दुर्वहम्
(ग) संस्थापित
खण्डः ‘ङ’
(पाठाभ्यासाधारिताः बहुविकल्पीयाः प्रश्नाः)
16. निर्दिष्ट प्रश्नेषु प्रदत्तवैकल्पिक चतुर्भ्यः उत्तरेभ्यः शुद्धम् उत्तरं चित्वा लिखत – 16 × 1 = 16
(क) ‘प्रकृतिः + एव’ अत्र किं सन्धिपदम् ?
(i) प्रकृतिरेव (ii) प्रकृतिरेव
(iii) प्रकृतीरेव (iv) कृतिरेव
(ख) ‘बहिरन्तः’ अत्र किं सन्धिविच्छेदः ?
(i) बहिः + रन्त (ii) बहिः + अन्तः
(iii) बही: + आन्त: (iv) वह: + आन्तर
(ग) ‘मलेन सहितम्’ अत्र किं समस्तपदम् ?
(i) समलम् (ii) सामलम्
(iii) सममलम् (iv) सान्तमलम्
(घ) ‘पीताम्बरम्’ पदे कः विग्रहः ?
(i) पीता अम्बरम् (ii) पीतम् अम्बरम्
(iii) पीत अम्बर (iv) पीतमम्बरम्
(ङ) ‘हनरथकम्’ शब्दस्य किं विलोमपदम् ?
(i) साथम् (ii) सार्थकम्
(iii) सहथकम् (iv) समाथकम्
(च) ‘कृतघ्नता’ पदस्य किं विलोमपदम् ?
(i) कृतक्षता (ii) कृतज्ञता
(iii) कृतज्ञा (iv) कातज्ञता
(छ) ‘शरीरम्’ पदस्य पर्यायपदं किम् ?
(i) तनुः (ii) मनः
(iii) शरीरी (iv) तनूः
(ज) ‘सूर्यः’ पदस्य पर्यायपदं किम् ?
(i) सवितुः (ii) सवीत्र
(iii) सविता (iv) सावित्री
(झ) ‘गृहीत्वा’ अत्र कः प्रत्ययः ?
(i) त्वा (ii) कतवा
(iii) कृत्वा (iv) कत्वा
(अ) ‘बुद्धि + मतुप् + ङीप्’ संयोगे किं रूपम् ?
(i) बुदिमती (ii) बुद्धीमति
(iii) बुद्धिमान् (iv) बुद्धिमती
(ट) ‘20’ गणना स्थाने संख्यावाचीपदं किम् ?
(i) विंशतिः (ii) विंशति
(iii) वीशती: (iv) विंशशति:
(ठ) ‘पंचाशत्’ पदस्य स्थाने का संख्या ?
(i) 500 (ii) 1500
(iii) 150 (iv) 50
(ड) ‘अतिदीर्घतमः प्रवासः’ अत्र विशेष्यपदं किम् ?
(i) दीर्घतमः (ii) अतिदीर्घतमः
(iii) प्रवासः (iv) प्रवासः
(ढ) ‘श्लाघा कथा’ अत्र विशेषणपदं किम् ?
(i) श्लाघा (ii) कथा:
(iii) कथा (iv) श्लाघा
(ण) ‘शेमुषी’ पदस्य किम् अर्थम् ?
(i) बुद्धि (ii) ज्ञान
(iii) विज्ञान (iv) नींद
(त) घटिकां दृष्ट्वा संस्कृतेन रिक्तस्थानं मञ्जूषापदेन पूरयत –
(I) रमा प्रातः .................... पठति।
(i) चार बजे (ii) चतुर्वादने
(iii) चतुष्टवादने (iv) चतुर्बादने
(II) देवः प्रातः ................. भ्रमति।
(i) पाँच बजे (ii) पंचमवादने
(iii) पनचवादने (iv) पञ्चवादने
Haryana Board Class 10 Sanskrit Question paper 2025 , Free PDF Download link
Other Question paper :
Haryana Board Class 10 Punjabi Previous Year Question Paper 2025 PDF Download (Free)
Haryana Board Class 10 Social Science Previous Year Question Paper 2025 PDF Download (Free)
Haryana Board Class 10 Science Previous Year Question Paper 2025 PDF Download (Free)