Haryana Board (BSEH) Class-12 Sanskrit-Previous Year Question Paper 2026 (HBSE) PDF Download (Free)
सामान्य निर्देश :
(क) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।
(ख) प्रश्नसंख्याः प्रश्नपत्रानुसारम् अवश्यमेव लेखनीयाः।
(ग) श्रेष्ठाङ्कान् प्राप्तये सुस्पष्टः लेखः लेखनीयः।
खण्डः – ‘क’
(अपठित-अवबोधनम्)
1. अधोलिखित गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि यथानिर्देशं संस्कृतेन लिखत -
कस्मिंश्चित् ग्रामे एकः कृषकः वसति स्म। कृषकः तस्य भार्यां च प्रतिदिनम् स्वक्षेत्रे कार्यम् अकुरुताम्। एकदा यदा कृषकः खनित्रेण भूमिम् खनति स्म तदा सः एकम् स्वर्णस्य महाकुम्भम् प्राप्नोति। कुम्भे च स्वर्णमुद्राः आसन्। तौ प्रसन्नौ भूत्वा गृहे अगच्छताम्। अग्रिमे दिवसे कृषकस्य भार्यां स्वसख्यै सर्वम् न्यवेदयत्। जनाः कृषकम् कथयन्ति यत् धनम् राजकोषे यच्छ। यदा रात्रौ तस्य भार्यां स्वपिति स्म तदा कृषकः अनेकानि मिष्टान्नानि क्रीत्वा सूत्रखण्डैः बद्ध्वा उद्यानस्य वृक्षेषु लम्बयत। यदा तस्य भार्यां वृक्षेषु मिष्टान्नानि फलितानि अपश्यत् तदा सा अतीव प्रसन्ना अभवत्। सर्वं जनाः हसित्वा गच्छन्ति। कृषकः तु कथयति, ‘‘मम भार्यां तु अद्यत्वे कल्पनालोके एव विचरति। स्वर्णकुम्भः अपि तस्याः कल्पना एव।’’
प्रश्नाः –
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्) -
(क) कृषकः तस्य भार्यां च प्रतिदिनम् कुत्र कार्यं अकरोत् ?
(ख) कृषकः केन भूमिम् खनति ?
(ग) क्षेत्रे कृषकः किम् प्राप्नोति ?
(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्) -
2 x 2 = 4
(क) जनाः कृषकम् किम् कथयन्ति ?
(ख) सर्वे जनाः किम् कृत्वा गच्छन्ति ?
(ग) कृषकः किम् कथयति ?
(स) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1 × 1 = 1
(द) यथानिर्देशम् उत्तरत (केवलं प्रश्नत्रयम्) – 3 × 1 = 3
(i) ‘हसित्वा’ इत्यस्य शब्दस्य विलोमपदं किम् ?
(क) रोदितुम् (ख) हसितुम्
(ग) रोदित्वा (घ) गच्छति
(ii) ‘तस्य’ इत्यस्मिन् शब्दे का विभक्तिः ?
(क) तृतीया (ख) पंचमी
(ग) चतुर्थी (घ) षष्ठी
(iii) ‘महाकुम्भम्’ इत्यस्य विशेषणपदं किम् ?
(क) स्वर्णस्य (ख) महाकुम्भस्य
(ग) स्वर्ण (घ) कुम्भ
(iv) ‘सर्वे जनाः हसित्वा गच्छन्ति।’ इत्यस्मिन् वाक्ये ‘गच्छन्ति’ क्रियापदस्य कर्ता कः ?
(क) हसित्वा (ख) सर्वे जनाः (ग) गच्छति (घ) हसामि
खण्डः – ‘ख’
(रचनात्मक कार्यम्)
2. विषयमेकमधिकृत्य पञ्चवाक्यानि संस्कृतभाषया लिखत –
(क) प्रातःकालीन भ्रमणम्
(ख) सत्सङ्गतिः
(ग) मम प्रिय कविः
(घ) संस्कृत भाषायाः महत्त्वम्
(छन्द-अलङ्कार-परिचयः)
3. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम्) - 3 × 2 = 6
(क) इन्द्रवज्रा छन्दसः लक्षणं किम् ?
(ख) अनुष्टुप् उदाहरणं किम् ?
(ग) वसन्ततिलका छन्दसि कति वर्णाः भवन्ति ?
(घ) ननमययुतेयं ................. भोगिलोकैः। (लक्षणस्य रिक्तस्थानपूर्तिं कुरुत)
4. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (केवलं प्रश्नत्रयम् ) - 3 × 2 = 6
(क) अनुप्रासस्य अलङ्कारस्य लक्षणं किम् ?
(ख) उत्प्रेक्षा-अलङ्कारस्य उदाहरणं किम् ?
(ग) श्लेष-अलङ्कारस्य लक्षणं किम् ?
(घ) ................ उपमा भेदे। (लक्षणस्य रिक्तस्थानपूर्तिं कुरुत)
खण्डः – ‘ग’
(पठित-अवबोधनम्)
5. अधोलिखितपद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत –
सुखदुःखसमे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥
1 × 4 = 4
अथवा
अस्ति यद्यपि सर्वत्र नीरं नीरज-राजितम्।
रमते न मरालस्य मानसं मानसं विना।
6. अधोलिखितगद्यांशस्य हिन्दीभाषया सप्रसङ्गसरलार्थ लिखत –
1 × 4 = 4
एवं सकलगुणनिवासः स राजा विक्रमो एकदा स्वमनसि चिन्तयत् – ‘अहो असारोऽयं संसारः, कदा कस्य किं भविष्यतीति न ज्ञायते। यच्चोपार्जितानां वित्तं तदपि दानभोगाभ्यां विना सफलं न भवति।’
अथवा
एकस्मिन् दिने श्रीनायारः पत्रमेकं धृत्वा मस्तकमवनमय्य पठन् आसीत्। नेत्रतीराद् विगलिता अश्रुधारा अवीकरोति स्म पत्रस्य अर्थाधिकं भागम्। तदानीमेव तस्य कार्यालयलिपिकः श्रीदासः प्रविशति। श्रीनायारः तमुक्तवान्-अधुना मम गमनसमयः समुपागत एव।
7. अधोलिखितासु सूक्तिषु मात्र द्वयोः सूक्त्योः भावार्थं हिन्दीभाषया लिखत –
2 × 2 = 4
(क) अविद्या मृत्युं तीर्त्वा विद्ययामृतमश्नुते।
(ख) कोटीश्चतम्नो दश चाहर।
(ग) हरति अतिमलिनमपि दोषजातं गुरुपदेशः।
(घ) क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
## अथवा
अधोलिखितश्लोकस्य अव्यं मञ्जूषातः उचितपदानि चित्वा पूरयत –
ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्।।
अन्यः –
जगत्यां यत् किञ्च (1) ............ इदं (2) ............ ईशा वास्यम्, तेन (3) ............ भुञ्जीथा मा (4) ............ धनं कस्य सित्।
मञ्जूषा
त्यक्तेन, गृधः, सर्वं, जगत्
8. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि श्लोकात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत –
विपदि वैय्यथाभ्युदये क्षमा सदसि वाक्पटुता युवति विक्रमः।
यशसि चाभिरुचित्वसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।
प्रश्नः (केवलं प्रश्नत्रयम् )–
(क) कस्य यशसि अभिरुचिः भवति ?
(ख) महात्मनां सदसि का भवति ?
(ग) ‘महात्मनाम्’ – इति पदे का विभक्तिः अस्ति?
(घ) ‘वाक्पटुता’- इति पदे कः समासः अस्ति?
9. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि गद्यांशात् चित्वा संस्कृतभाषया पूर्णवाक्येन लिखत –
श्रीनायारस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे बहुदिनेभ्यः स्थगितानां विविध समस्यानामपि समाधानं जातम्। स्वकार्यं त्यक्त्वा अपरस्य सहकारस्तस्य परम धर्मः। सः प्रतिमासं प्रथम दिवसे स्ववेतनस्य अर्थाधिकं भागं केरलं प्रेषयति स्म। तेनानुमीयते तस्य राज्येन सह अस्ति कश्चित् सम्पर्कः।
प्रश्नः (केवलं प्रश्नत्रयम् )–
(क) श्रीनायारः प्रतिमासं प्रथमदिवसे किं केरलं प्रेषयति स्म ?
(ख) कस्य दायित्वग्रहणस्य एकमासाभ्यन्तरे समस्यानाम् अपि किं जातम् ?
(ग) ‘त्यक्त्वा’ – इत्यस्मिन् पदे कः प्रत्ययः प्रयुक्तः ?
(घ) श्रीनायारस्य – इत्यस्मिन् पदे का विभक्तिः प्रयुक्ता ?
10. कोष्टकाद् उपयुक्तशब्दं चित्वा रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतुष्ट्यम्) - 4 × 1 = 4
(क) अश्वमेध इति नाम क्षत्रियाणाम् महान् उत्कर्षनिकषः। (केषाम्/कीदृशम्)
(ख) श्रीदासः तत्पत्रमुद्घाटितवान्। (केन/कः)
(ग) तस्य राज्येन सह कश्चित् सम्पर्कः नास्ति। (कस्य/केन)
(घ) उत्पथैः मम मनः पारिण्वं धावति। (कस्य/केषाम्)
(ङ) जगत्सर्वमीशावास्यमस्ति। (कीदृशम्/कः)
(संस्कृत-साहित्य-परिचयः)
11. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया एकपदेन लिखत (केवलं प्रश्नचतुष्ट्यम्) - 4 × 1 = 4
(क) ईशावास्योपनिषद् कस्याः संहितायाः भागः ?
(ख) ‘कर्मगौरवम्’ पाठः कस्मात् ग्रन्थात् संकलितः ?
(ग) ‘कादम्बरी’ कीदृशं काव्यम् अस्ति ?
(घ) ‘विक्रमस्यौदार्यम्’ पाठः कस्मात् ग्रन्थात् संकलितः ?
(ङ) ‘कायं वा साधयेयं देहं वा पातयेयम्’ – पाठस्य रचयिता कः ?
12. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया एकपदेन लिखत (केवलं प्रश्नचतुष्ट्यम्) - 4 × 1 = 4
(क) ‘रघुवंशमहाकाव्यस्य’ रचयिता कः ?
(ख) ‘उत्तररामचरितस्य’ नायिका का अस्ति ?
(ग) ‘कादम्बरी’ गद्यकाव्यस्य रचयिता कः अस्ति ?
(घ) ‘शिवराजविजयस्य’ रचयिता कः अस्ति ?
(ङ) प्राचीनतमः वेदः कः ?
खण्डः – ‘घ’
(अनुप्रयुक्त-व्याकरणम्)
13. (क) स्वर-सन्धेः अथवा अयादि-सन्धेः परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत। 1 × 2 = 2
(ख) अव्ययीभाव-समासस्य अथवा द्वन्द्व-समासस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत।
1 × 2 = 2
(ग) कर्तृ-कारकस्य अथवा सम्प्रदान-कारकस्य परिभाषां हिन्दीभाषया उदाहरणञ्च संस्कृतभाषया लिखत।
1 × 2 = 2
खण्डः – ‘ङ’
(पाठपारायणाः बहुविकल्पीयाः प्रश्नाः)
14. अधोनिर्दिष्टेषु प्रश्नेषु प्रदत्तवैकल्पिकचतुष्ट्यः उत्तरेषु एकं शुद्धम् उत्तरं चित्वा लिखत – 17 × 1 = 17
(i) ‘अनेजदेकं’ इत्यस्य शब्दस्य कः सन्धिच्छेदः ?
(क) अनेज + देकम् (ख) अनेजतेकं + एक
(ग) अनेजद + एकम् (घ) अनेजत् + एकम्
(ii) ‘तत् + थावतः’ इत्यस्य सन्धियुक्तं पदं किम् ?
(क) तदावतः (ख) तथावत्
(ग) तद्वावतः (घ) तथावतः
(iii) ‘गुरूपदेशः’ – इत्यस्मिन् शब्दे कः सन्धिः ?
(क) दीर्घ सन्धिः (ख) वृद्धि सन्धिः
(ग) अयादि सन्धिः (घ) गुण सन्धिः
(iv) ‘राजितम्’ – इत्यस्मिन् शब्दे कः प्रत्ययः ?
(क) क्तवतु (ख) क्त्वा
(ग) क्त (घ) तुमुन
(v) ‘विधाय’-इत्यस्मिन् शब्दे कः प्रत्ययः ?
(क) तुमुन (ख) ल्यप्
(ग) क्तवतु (घ) क्त्वा
(vi) ‘त्यज् + क्त’ – एतेषु संयोगे किं रूपं भवति ?
(क) त्यजत (ख) त्यक्तः
(ग) त्यज (घ) त्यजातः
(vii) ‘विक्रमतुल्यम्’ – इत्यस्मिन् शब्दे कः समासः ?
(क) तत्पुरुषः (ख) अव्ययीभावः
(ग) कर्मधारयः (घ) बहुव्रीहिः
(viii) ‘महोत्साहः’ – इत्यस्मिन् शब्दे कः समासः ?
(क) तत्पुरुषः (ख) बहुव्रीहिः
(ग) कर्मधारयः (घ) द्वन्द्वः
(ix) ‘कर्मसु नैपुण्यं’ – अत्र समस्तपदं किम् ?
(क) कर्माणां नैपुण्यं
(ख) कर्मनिपुणः
(ग) कर्मनिपुणाः
(घ) कर्मनैपुण्यं
(x) ‘जनस्य’ इत्यस्मिन् शब्दे का विभक्तिः ?
(क) प्रथमा
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी
(xi) ‘तिष्ठति’ इत्यस्मिन् शब्दे कः लकारः ?
(क) लट् लकारः
(ख) लोट् लकारः
(ग) लृट् लकारः
(घ) लङ् लकारः
(xii) ‘जगत्’ इत्यस्य शब्दस्य पर्यायपदं किम् ?
(क) प्रसन्नं
(ख) शिवः
(ग) संसारः
(घ) शरीरम्
(xiii) ‘प्रारभ्य’ – इत्यस्य शब्दस्य विलोमपदं किम् ?
(क) आरभ्य
(ख) समाप्य
(ग) समयानुसार
(घ) प्रारब्धः
(xiv) ‘तमसा’ इत्यस्य शब्दस्य विलोमपदं किम् ?
(क) प्रकाशेन (ख) भयः
(ग) तमसः (घ) मध्यः
(xv) ‘विश्वजित् अद्यरे’ – अत्र विशेषणपदं किम् ?
(क) अद्यरे
(ख) विश्वजित्
(ग) विश्वजीत्
(घ) अद्यराय
(xvi) ‘अतिमलिनं दोषजातम्’ – अत्र विशेष्यपदं किम् ?
(क) अतिमलिनं
(ख) मलिन
(ग) दोषजातम्
(घ) दोष
(xvii) ‘दारुणो’ इत्यस्य शब्दस्य किं विशेष्यपदं पाठे प्रयुक्तम् ?
(क) दारुणो (ख) लक्ष्मी
(ग) दारुणम् (घ) लक्ष्मीमदः
Haryana Board Class 12 Sanskrit 2026 Free PDF Download link
Other Important Question Paper :
Haryana Board (BSEH) Class-12 Retail-Previous Year Question Paper 2026 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Punjabi-Previous Year Question Paper 2026 (HBSE) PDF Download (Free)
Haryana Board (BSEH) Class-12 Public Administration-Previous Year Question Paper 2026 (HBSE) PDF Download (Free)